बहुवर्षेभ्य: पूर्वं ग्रीस् राज्ये सम्भूते कस्मिश्चित् युद्धे कश्चन सैनिक: शत्रुभि: गृहीत: कारागृहे बद्ध: च। द्वित्राणि वर्षाणि तेन कारागृहे एकस्मिन् लघु प्रकोष्ठे स्थातव्यमित्यभवत्। स्वबन्धुमित्रादिभि: सह सम्पर्कं विना एकाकी बद्ध: बाह्यलोकदर्शनं प्राप्तुमप्यशक्त: स: महतीं मनोवेदनामन्वभवत्। कथञ्चित् बहिरागन्तव्यमिति प्रार्थयन् स: कालं अयापयत्। यदा युद्धस्य परिसमाप्ति: जाता कारागृहे स्थापिता: सैनिका: विमोचिता: अभवन्।. काराग्रुहात् विमोचित: सैनिकोऽयं पद्भ्यां स्वगृहं गच्छन् मार्गे कस्मिश्चित् आपणे विक्रयणाय स्थापितान् पञ्जरेषु बद्धमानान् पक्षिण: अपश्यत्।लघुभ्य: पञ्जरेभ्य: रुदत: पक्षिण: दृष्ट्वा तस्य मनसि स्वेन कारगृहे अनुभूतानां पीडानां स्मरणं समागतम्। तेषु पक्षिषु तस्य मनसि अनुकम्पा समुत्पन्ना। मम स्वगृहप्राप्ते: विलम्ब: भवेत् न तु एतेषां पक्षिण: मोचने इति मनसि निश्चित्य स: समीपस्थां विपणीं गत्वा भारवाहककार्यं कुर्वन् किञ्चित् धनमर्जयत्। तेन स: आपणे विद्यमानान् सर्वान् पक्षिण: क्रीत्वा पञ्चरेभ्य: तान् अमोचयत।। सर्वे पक्षिण: आनन्देन अडयन्त। तान् दृष्ट्वा तस्य सैनिकस्य नेत्राभ्यां आनन्दाश्रुस्राव: जात:।

Author: renjiveda

I'm not I

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: